top of page
< Back

श्री सूर्यमण्डलाष्टकम् - Shri Surya Mandala Ashtakam

नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे ।

त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनारायणशङ्करात्मने ॥


यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं तीव्रमनादिरूपम्।

दारिद्र्यदुःखक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनमुक्तिकोविदम् ।

तं देवदेवं प्रणमामि सूर्यंपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं ज्ञानघनं त्वगम्यंत्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।

समस्ततेजोमयदिव्यरूपंपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं गूढमतिप्रबोधंधर्मस्य वृद्धिं कुरुते जनानाम् ।

यत्सर्वपापक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं व्याधिविनाशदक्षंयदृग्यजुः सामसु संप्रगीतम् ।

प्रकाशितं येन च भूर्भुवः स्वःपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः ।

यद्योगिनो योगजुषां च संघाःपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं सर्वजनेषु पूजितंज्योतिश्च कुर्यादिह मर्त्यलोके ।

यत्कालकल्पक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं विश्वसृजांप्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ।

यस्मिञ्जगत्संहरतेऽखिलचपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं सर्वगतस्य विष्णोरात्मापरं धाम विशुद्धतत्त्वम् ।

सूक्ष्मान्तरैर्योगपथानुगम्यंपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः ।

यन्मण्डलं वेदविदः स्मरन्तिपुनातु मां तत्सवितुर्वरेण्यम् ॥


यन्मण्डलं वेदविदोपगीतंयद्योगिनां योगपथानुगम्यम् ।

तत्सर्ववेदं प्रणमामि सूर्यंपुनातु मां तत्सवितुर्वरेण्यम् ॥


मण्डलाष्टतयं पुण्यंयः पठेत्सततं नरः ।

सर्वपापविशुद्धात्मासूर्यलोके महीयते ॥

bottom of page