top of page
< Back

श्री लक्ष्मी नारायण स्तोत्रम् - Shree Laxmi Narayan Stotram

श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल ।

लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥१॥


राधारमण गोविंद भक्तकामप्रपूरक ।

नारायण नमस्तुभ्यं त्राहि मां भवसागरात् ॥२॥


दामोदर महोदार सर्वापत्तीनिवारण ।

ऋषिकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥३॥


गरुडध्वज वैकुंठनिवासिन्केशवाच्युत ।

जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥४॥


शंखचक्रगदापद्मधर श्रीवत्सलांच्छन ।

मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥५॥


त्वं माता त्वं पिता बंधु: सद्गुरूस्त्वं दयानिधी: ।

त्वत्तोs न्यो न परो देवस्त्राही मां भवसागरात् ॥६॥


न जाने दानधर्मादि योगं यागं तपो जपम ।

त्वं केवलं कुरु दयां त्राहि मां भवसागरात् ॥७॥


न मत्समो यद्यपि पापकर्ता न त्वत्समोsथापि हि पापहर्ता ।

विज्ञापितं त्वेतद्शेषसाक्षीन मामुध्दरार्तं पतितं तवाग्रे ॥८॥

bottom of page