top of page
< Back

श्री युगलाष्टकम् - Shree Yugal Ashtakam

कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥1॥


कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥2॥


कृष्णप्राणमयी राधा राधाप्राणमयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥3॥


कृष्णद्रवामयी राधा राधाद्रवामयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥4॥


कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥5॥


कृष्णचित्तस्थिता राधा राधाचित्स्थितो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥6॥


नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥7॥


वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥8॥

bottom of page